![सरस्वती मया दृष्टा वीणापुस्तकधारिणी ।हंसवाहनसंयुक्ता विद्यादानं करोतु मे ।। १।।प्रथमं भारती नाम द्वितीयञ्च सरस्वती ।तृती...](https://img4.medioq.com/307/240/1123974963072405.jpg)
03/02/2025
सरस्वती मया दृष्टा वीणापुस्तकधारिणी ।
हंसवाहनसंयुक्ता विद्यादानं करोतु मे ।। १।।
प्रथमं भारती नाम द्वितीयञ्च सरस्वती ।
तृतीयं शारदा देवी चतुर्थ हंसवाहिनी ।। २ ।।
पञ्चमं तु जगन्माता षष्ठं वागीश्वरी तथा ।
सप्तमं चैव कौमारी अष्टमं वरदायिनी ।। ३।।
नवमं बुद्धिदात्री च दशमं ब्रह्मचारिणी ।
एकादशं चन्द्रघण्टा द्वादशं भुवनेश्वरी ।। ४।।
द्वादशै तानि नामानि त्रिसन्ध्यं य पठेन्नरः ।
जिह्वाग्रे वसते तस्य ब्रह्मरूपा सरस्वती ।। ५।।